दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ।
आरती हे तव चरणी राहो । नति तति गुरुवरा ॥ धृ. ॥
दिग्भिर्वेष्टितमम्बरमेव प्रत्यग्ब्रह्मेति ।
खं ब्रह्मेति श्रुतिरपि वदति ।
खं ब्रह्मेति श्रुतिरपि वदति दिगम्बरश्चेति ॥ १ ॥
दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ॥ धृ. ॥
दिगिव चाम्बरमेव व्यापकं पूर्णब्रह्मेति ।
सच्चित्सुखघनमायातीतं ।
सच्चित्सुखघनमायातीतं दिगम्बरं वदति ॥ २ ॥
दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ॥ धृ. ॥
श्रीपादवल्लभ नाम प्राप हि नक्रगजेन्द्रमिव ।
द्रौपद्यम्बरीषचोर ।
द्रौपद्यम्बरीषचोरग्रसितद्विजमेव ॥ ३ ॥
दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ॥ धृ. ॥
दिगम्बर गुरुवासुदेव दत्तस्त्वं ब्रह्म ।
कामक्रोधग्रसितं मां लभ ।
कामक्रोधग्रसितं मां लभ तथैव झटिति वह ॥ ४ ॥
दिगंबरा दिगंबरा श्रीपादवल्लभ दिगंबरा ॥ धृ. ॥