मागे (Home)
श्री दत्तात्रेयस्तोत्र~3 मिनिटे

श्री दत्तात्रेय स्तोत्रम् (नारद पुराणोक्त)

रचनाकार: देवर्षि नारद (Devarshi Narada - Narada Purana)

जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् ।

सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥

जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।

भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १ ॥

जराजन्मविनाशाय देहशुद्धिकराय च ।

दिगम्बराय दिव्याय दत्तात्रेय नमोऽस्तुते ॥ २ ॥

कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।

वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३ ॥

ह्रस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।

सर्वसर्वज्ञरूपाय दत्तात्रेय नमोऽस्तुते ॥ ४ ॥

यज्ञभोक्त्रे च यज्ञाय यज्ञरूपधराय च ।

यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते ॥ ५ ॥

भस्मोद्धूलितदेहाय महावीर्यधराय च ।

समलोष्ट्रहिरण्याय दत्तात्रेय नमोऽस्तुते ॥ ६ ॥

सर्वदुःखक्षयकराय सर्वकामप्रदायिने ।

सर्वकामनिषेव्याय दत्तात्रेय नमोऽस्तुते ॥ ७ ॥

अणिमादिगुणैश्वर्य-सर्वसिद्धिप्रदायिने ।

सच्चिदानन्दरूपाय दत्तात्रेय नमोऽस्तुते ॥ ८ ॥

इदं स्तोत्रं महद्दिव्यं दत्तस्य परमात्मनः ।

यः पठेत्प्रयतो नित्यं सर्वपापैः प्रमुच्यते ॥

सर्वसिद्धिं लभेन्मर्त्यो दत्तभक्तो न संशयः ॥

चरण1/10

आरती संग्रह ॲप इन्स्टॉल करा

ऑफलाइन पठण, जलद अनुभव व होम स्क्रीन ॲक्सेस