घालीन लोटांगण वंदीन चरण ।
डोळ्यांनी पाहीन रूप तुझें ।
प्रेमें आलिंगिन आनंदें पूजिन ।
भावें ओवाळीन म्हणे नामा ॥ १ ॥
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देव देव ॥ २ ॥
कायेन वाचा मनसेंद्रियैर्वा ।
बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै ।
नारायणायेति समर्पयमि ॥ ३ ॥
अच्युतं केशवं रामनारायणं ।
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं ।
जानकीनायकं रामचंद्रं भजे ॥ ४ ॥
हरे राम हरे राम राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥