श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तात्रेया पाहि मां देवदेव ।
भवभयहरणं घोरकष्टोद्धारणम् । त्वमेव शरणं मम दत्तनाथ ॥ १ ॥
मायापाशविमोचनं दीनबंधुं । करुणासिंधुं भक्तवत्सलं देवम् ।
अनुसूयासुतं सर्वसिद्धिप्रदं । प्रणमामि नित्यं गुरुराजपादम् ॥ २ ॥
रोगान् संहर दारिद्र्यं हर मे प्रभो । संकटान्मुञ्च मां स्वामिन् कृपाघना ।
त्वदङ्घ्रिकमले मतिर्मेऽस्तु नित्यम् । श्रीपाद श्रीवल्लभ पाहि माम् ॥ ३ ॥