मागे (Home)
भगवान शनिदेवस्तोत्र~1 मिनिटे

दशरथ कृत शनि स्तोत्र (कोणस्थः पिंगलो बभ्रुः)

रचनाकार: राजा दशरथ (King Dasharatha)

कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।

सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः ॥ १ ॥

एतानि दश नामानि प्रातरुत्थाय यः पठेत् ।

शनैश्चरकृता पीडा न कदाचित् प्रजायते ॥ २ ॥

नमस्ते कोणसंस्थाय पिंगलाय नमोऽस्तु ते ।

नमस्ते बभ्रुरूपाय कृष्णाय च नमोऽस्तु ते ॥ ३ ॥

नमस्ते रौद्रदेहाय नमस्तकान्तकाय च ।

नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ॥ ४ ॥

प्रसीद मम देवेश सर्वपीडाहरो भव ।

शनैश्चर नमस्तुभ्यं छायापुत्राय ते नमः ॥ ५ ॥

चरण1/2

आरती संग्रह ॲप इन्स्टॉल करा

ऑफलाइन पठण, जलद अनुभव व होम स्क्रीन ॲक्सेस